तु॒ञ्जेतु॑ञ्जे॒ य उत्त॑रे॒ स्तोमा॒ इन्द्र॑स्य व॒ज्रिणः॑। न वि॑न्धे अस्य सुष्टु॒तिम्॥
tuñje-tuñje ya uttare stomā indrasya vajriṇaḥ | na vindhe asya suṣṭutim ||
तु॒ञ्जेऽतु॑ञ्जे। ये। उत्ऽत॑रे। स्तोमाः॑। इन्द्र॑स्य। व॒ज्रिणः॑। न। वि॒न्धे॒। अ॒स्य॒। सु॒ऽस्तु॒तिम्॥
स्वामी दयानन्द सरस्वती
अगले मन्त्र में इन्द्र शब्द से परमेश्वर का प्रकाश किया है-
स्वामी दयानन्द सरस्वती
इन्द्रशब्देनेश्वर उपदिश्यते।
नाहं ये तुञ्जेतुञ्जे उत्तरे स्तोमाः सन्ति तैर्वज्रिण इन्द्रस्य परमेश्वरस्य सुष्टुतिं विन्धे विन्दामि॥७॥